|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.253. अध्यायः 253
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति अध्यात्मविषयकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
शुक उवाच। 12-253-0x(6255)(75569)
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे।
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम॥ 12-253-1(75570)
व्यास उवाच। 12-253-2x(6256)
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते।
तत्तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु॥ 12-253-2(75571)
भूमिरापस्तथा ज्योतिर्वायुराकाश एव च।
महाभूतानि भूतानां सागरस्योर्मयो यथा॥ 12-253-3(75572)
प्रसार्येह यथाऽङ्गानि कूर्मः संहरते पुनः।
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते॥ 12-253-4(75573)
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्।
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा॥ 12-253-5(75574)
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्।
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति॥ 12-253-6(75575)
शुक उवाच। 12-253-7x(6257)
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्।
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्॥ 12-253-7(75576)
व्यास उवाच। 12-253-8x(6258)
एतत्ते वर्तयिष्यामि यथावदनुपूर्वकः।
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत्॥ 12-253-8(75577)
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम्।
प्राणश्रेष्टा तथा स्पर्श एते वायुगुणास्त्रयः॥ 12-253-9(75578)
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते।
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः॥ 12-253-10(75579)
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः।
`श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी॥ 12-253-11(75580)
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः।
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः॥ 12-253-12(75581)
मनो बुद्धिः स्वभावश्च त्रय एते मनोमयाः।
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः॥ 12-253-13(75582)
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति॥ 12-253-14(75583)
यदूर्ध्वं पादतलयोरवाङ्भूर्ध्नश्च पश्यति।
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा॥ 12-253-15(75584)
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि।
मनः षष्ठानि सर्वाणि बुद्ध्य भावे कृतो गुणाः॥ 12-253-16(75585)
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्॥ 12-253-17(75586)
चक्षुरालोचनायैव संशयं कुरुते मनः।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते॥ 12-253-18(75587)
रजस्तमश्च सत्वं च त्रय एते स्वयोनिजाः।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत्॥ 12-253-19(75588)
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्।
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत्॥ 12-253-20(75589)
यत्तु संतापसंयुक्तं काये मनसि वा भवेत्।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत्॥ 12-253-21(75590)
यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्॥ 12-253-22(75591)
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता।
अकस्माद्यदि वा कस्माद्वर्तन्ते सात्विका गुणाः॥ 12-253-23(75592)
अभिमानो मृषावादो लोभो मोहस्तथाऽक्षमा।
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः॥ 12-253-24(75593)
तथा मोहः प्रमादश्च निद्रा तन्द्रा प्रबोधिता।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः॥ ॥ 12-253-25(75594)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिपञ्चशदधिकद्विशततमोऽध्यायः॥ 253॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-253-3 मिभूतानि भूतानामिति ध. पाठः॥ 12-253-6 सुरनरतिर्यगादिरूण वैषम्यमकरोत्। तत्र हेतुः। यस्मिन्कर्मणि निमित्ते सति यदनुपश्यति अन्तकाले। यंयं वापि स्मरन् भावं त्यजत्यन्ते परम्॥ तंतमेवैतीति स्मृतेः॥ 12-253-9 पर्शः स्पर्शनेन्द्रिय --- युगुणा वायु---॥ 12-253-10 विपाको जाठरः॥ 12-253-11 शरीरं कठिनांशबाहुल्यात्पार्थिवम्। इन्द्रियग्रामैः सह पाञ्चभौतिक्रो विकारः॥ 12-253-12 स्पर्शादयो वाय्वादीनां गुणास्तद्विकारैः स्पर्शनादीन्द्रियैर्गृह्यन्ते। वायोः प्राण इति ध. पाठः॥ 12-253-13 एतेत्मयोनिजा इति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|